विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥७१ ॥
विहाय परित्यज्य कामान् यः सन्न्यासी पुमान् सर्वान् अशेषतः कार्त्स्न्येन चरति, जीवनमात्रचेष्टाशेषः पर्यटतीत्यर्थः । निःस्पृहः शरीरजीवनमात्रेऽपि निर्गता स्पृहा यस्य सः निःस्पृहः सन्, निर्ममः शरीरजीवनमात्राक्षिप्तपरिग्रहेऽपि ममेदं इत्यपभिनिवेशवर्जितः, निरहङ्कारः विद्यावत्त्वादिनिमित्तात्मसम्भावनारहितः इत्येतत् । सः एवम्भूतः स्थितप्रज्ञः ब्रह्मवित् शान्तिं सर्वसंसारदुःखोपरमलक्षणां निर्वाणाख्याम् अधिगच्छति प्राप्नोति ब्रह्मभूतो भवति इत्यर्थः ॥
सैषा ज्ञाननिष्ठा स्तूयते —