Verse Display - श्रीमद्भगवद्गीता
श्लोक

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥७० ॥

व्याकरण विश्लेषण
व्याकरण विश्लेषण अभी उपलब्ध नहीं है
श्रीशाङ्करभाष्य

आपूर्यमाणं अद्भिः अचलप्रतिष्ठं अचलतया प्रतिष्ठा अवस्थितिः यस्य तं अचलप्रतिष्ठं समुद्रं आपः सर्वतो गताः प्रविशन्ति स्वात्मस्थमविक्रियमेव सन्तं यद्वत्, तद्वत् कामाः विषयसन्निधावपि सर्वतः इच्छाविशेषाः यं पुरुषं — समुद्रमिव आपः — अविकुर्वन्तः प्रविशन्ति सर्वे आत्मन्येव प्रलीयन्ते न स्वात्मवशं कुर्वन्ति, सः शान्तिं मोक्षं आप्नोति, न इतरः कामकामी, काम्यन्त इति कामाः विषयाः तान् कामयितुं शीलं यस्य सः कामकामी, नैव प्राप्नोति इत्यर्थः ॥

यस्मादेवं तस्मात्—