या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥६९ ॥
या निशा रात्रिः सर्वपदार्थानामविवेककरी तमःस्वभावत्वात् सर्वभूतानां सर्वेषां भूतानाम् । किं तत् परमार्थतत्त्वं स्थितप्रज्ञस्य विषयः । यथा नक्तञ्चराणां अहरेव सदन्येषां निशा भवति, तद्वत् नक्तञ्चरस्थानीयानामज्ञानां सर्वभूतानां निशेव निशा परमार्थतत्त्वम्, अगोचरत्वादतद्बुद्धीनाम् । तस्यां परमार्थतत्त्वलक्षणायामज्ञाननिद्रायाः प्रबुद्धो जागर्ति संयमी संयमवान्, जितेन्द्रियो योगीत्यर्थः । यस्यां ग्राह्यग्राहकभेदलक्षणायामविद्यानिशायां प्रसुप्तान्येव भूतानि जाग्रति इति उच्यन्ते, यस्यां निशायां प्रसुप्ता इव स्वप्नदृशः, सा निशा अविद्यारूपत्वात् परमार्थतत्त्वं पश्यतो मुनेः ॥
अतः कर्माणि अविद्यावस्थायामेव चोद्यन्ते, न विद्यावस्थायाम् । विद्यायां हि सत्यां उदिते सवितरि शार्वरमिव तमः प्रणाशमुपगच्छति अविद्या । प्राक् विद्योत्पत्तेः अविद्या प्रमाणबुद्ध्या गृह्यमाणा क्रियाकारकफलभेदरूपा सती सर्वकर्महेतुत्वं प्रतिपद्यते । न अप्रमाणबुद्ध्या गृह्यमाणायाः कर्महेतुत्वोपपत्तिः, “प्रमाणभूतेन वेदेन मम चोदितं कर्तव्यं कर्म” इति हि कर्मणि कर्ता प्रवर्तते, न “अविद्यामात्रमिदं सर्वं निशेव” इति । यस्य पुनः “निशेव अविद्यामात्रमिदं सर्वं भेदजातम्” इति ज्ञानं तस्य आत्मज्ञस्य सर्वकर्मसन्न्यासे एव अधिकारो न प्रवृत्तौ । तथा च दर्शयिष्यति —“तद्बुद्धयस्तदात्मानः” (भ. गी. ५-१७) इत्यादिना ज्ञाननिष्ठायामेव तस्य अधिकारम् ॥
तत्रापि प्रवर्तकप्रमाणाभावे प्रवृत्त्यनुपपत्तिः इति चेत्, न ; स्वात्मविषयत्वादात्मविज्ञानस्य । न हि आत्मनः स्वात्मनि प्रवर्तकप्रमाणापेक्षता, आत्मत्वादेव । तदन्तत्वाच्च सर्वप्रमाणानां प्रमाणत्वस्य । न हि आत्मस्वरूपाधिगमे सति पुनः प्रमाणप्रमेयव्यवहारः सम्भवति । प्रमातृत्वं हि आत्मनः निवर्तयति अन्त्यं प्रमाणम् ; निवर्तयदेव च अप्रमाणीभवति, स्वप्नकालप्रमाणमिव प्रबोधे । लोके च वस्त्वधिगमे प्रवृत्तिहेतुत्त्वादर्शनात् प्रमाणस्य । तस्मात् न आत्मविदः कर्मण्यधिकार इति सिद्धम् ॥
विदुषः त्यक्तैषणस्य स्थितप्रज्ञस्य यतेरेव मोक्षप्राप्तिः, न तु असन्न्यासिनः कामकामिनः इत्येतमर्थं दृष्टान्तेन प्रतिपादयिष्यन् आह —