नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥६६ ॥
नास्ति न विद्यते न भवतीत्यर्थः, बुद्धिः आत्मस्वरूपविषया अयुक्तस्य असमाहितान्तःकरणस्य । न च अस्ति अयुक्तस्य भावना आत्मज्ञानाभिनिवेशः तथा — न च अस्ति अभावयतः आत्मज्ञानाभिनिवेशमकुर्वतः शान्तिः उपशमः । अशान्तस्य कुतः सुखम् ? इन्द्रियाणां हि विषयसेवातृष्णातः निवृत्तिर्या तत्सुखम्, न विषयविषया तृष्णा । दुःखमेव हि सा । न तृष्णायां सत्यां सुखस्य गन्धमात्रमप्युपपद्यते इत्यर्थः ॥
अयुक्तस्य कस्माद्बुद्धिर्नास्ति इत्युच्यते —