Verse Display - श्रीमद्भगवद्गीता
श्लोक

क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥६३ ॥

व्याकरण विश्लेषण
व्याकरण विश्लेषण अभी उपलब्ध नहीं है
श्रीशाङ्करभाष्य

क्रोधात् भवति सम्मोहः अविवेकः कार्याकार्यविषयः । क्रुद्धो हि सम्मूढः सन् गुरुमप्याक्रोशति । सम्मोहात् स्मृतिविभ्रमः शास्त्राचार्योपदेशाहितसंस्कारजनितायाः स्मृतेः स्यात् विभ्रमो भ्रंशः स्मृत्युत्पत्तिनिमित्त-प्राप्तौ अनुत्पत्तिः । ततः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धेर्नाशः । कार्याकार्यविषयविवेकायोग्यता अन्तःकरणस्य बुद्धेर्नाश उच्यते । बुद्धिनाशात् प्रणश्यति । तावदेव हि पुरुषः यावदन्तःकरणं तदीयं कार्याकार्यविषयविवेकयोग्यम् । तदयोग्यत्वे नष्ट एव पुरुषो भवति । अतः तस्यान्तःकरणस्य बुद्धेर्नाशात् प्रणश्यति पुरुषार्थायोग्यो भवतीत्यर्थः ॥

सर्वानर्थस्य मूलमुक्तं विषयाभिध्यानम् । अथ इदानीं मोक्षकारणमिदमुच्यते —