Verse Display - श्रीमद्भगवद्गीता
श्लोक

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥६२ ॥

व्याकरण विश्लेषण
व्याकरण विश्लेषण अभी उपलब्ध नहीं है
श्रीशाङ्करभाष्य

ध्यायतः चिन्तयतः विषयान् शब्दादीन् विषयविशेषान् आलोचयतः पुंसः पुरुषस्य सङ्गः आसक्तिः प्रीतिः तेषु विषयेषु उपजायते उत्पद्यते । सङ्गात् प्रीतेः सञ्जायते समुत्पद्यते कामः तृष्णा । कामात् कुतश्चित् प्रतिहतात् क्रोधः अभिजायते ॥