योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥४८ ॥
योगस्थः सन् कुरु कर्माणि केवलमीश्वरार्थम् ; तत्रापि “ईश्वरो मे तुष्यतु” इति सङ्गं त्यक्त्वा धनञ्जय । फलतृष्णाशून्येन क्रियमाणे कर्मणि सत्त्वशुद्धिजा ज्ञानप्राप्तिलक्षणासिद्धिः, तद्विपर्ययजा असिद्धिः, तयोः सिद्ध्यसिद्ध्योः अपि समः तुल्यः भूत्वा कुरु कर्माणि । कोऽसौ योगः यत्रस्थः कुरु इति उक्तम् ? इदमेव तत् — सिद्ध्यसिद्ध्योः समत्वं योगः उच्यते ॥
यत्पुनः समत्वबुद्धियुक्तमीश्वराराधनार्थं कर्मोक्तम्, एतस्मात्कर्मणः —