Verse Display - श्रीमद्भगवद्गीता
श्लोक

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥४६ ॥

व्याकरण विश्लेषण
व्याकरण विश्लेषण अभी उपलब्ध नहीं है
श्रीशाङ्करभाष्य

यथा लोके कूपतडागाद्यनेकस्मिन् उदपाने परिच्छिन्नोदके यावान् यावत्परिमाणः स्नानपानादिः अर्थः फलं प्रयोजनं स सर्वः अर्थः सर्वतः सम्प्लुतोदकेऽपि यः अर्थः तावानेव सम्पद्यते, तत्र अन्तर्भवतीत्यर्थः । एवं तावान् तावत्परिमाण एव सम्पद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु यः अर्थः यत्कर्मफलं सः अर्थः ब्राह्मणस्य सन्न्यासिनः परमार्थतत्त्वं विजानतः यः अर्थः यत् विज्ञानफलं सर्वतःसम्प्लुतोदकस्थानीयं तस्मिन् तावानेव सम्पद्यते तत्रैवान्तर्भवतीत्यर्थः । “यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत् किञ्चित् प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद” (छा. उ. ४-१-४)इति श्रुतेः । “सर्वं कर्माखिलम्” (भ. गी. ४-३३) इति च वक्ष्यति । तस्मात् प्राक् ज्ञाननिष्ठाधिकारप्राप्तेः कर्मण्यधिकृतेन कूपतडागाद्यर्थस्थानीयमपि कर्म कर्तव्यम् ॥

तव च —