व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥४१ ॥
व्यवसायात्मिका निश्चयस्वभावा एका एव बुद्धिः इतरविपरीतबुद्धिशाखाभेदस्य बाधिका, सम्यक्प्रमाणजनितत्वात्, इह श्रेयोमार्गे हे कुरुनन्दन । याः पुनः इतरा विपरीतबुद्धयः, यासां शाखाभेदप्रचारवशात् अनन्तः अपारः अनुपरतः संसारो नित्यप्रततो विस्तीर्णो भवति, प्रमाणजनितविवेकबुद्धिनिमित्तवशाच्च उपरतास्वनन्तभेदबुद्धिषु संसारोऽप्युपरमते ता बुद्धयः बहुशाखाः बह्वयः शाखाः यासां ताः बहुशाखाः, बहुभेदा इत्येतत् । प्रतिशाखाभेदेन हि अनन्ताश्च बुद्धयः । केषाम् ? अव्यवसायिनां प्रमाणजनितविवेकबुद्धिरहितानामित्यर्थः ॥
येषां व्ववसायात्मिका बुद्धिर्नास्ति ते —