Verse Display - श्रीमद्भगवद्गीता
श्लोक

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥४० ॥

व्याकरण विश्लेषण
व्याकरण विश्लेषण अभी उपलब्ध नहीं है
श्रीशाङ्करभाष्य

न इह मोक्षमार्गे कर्मयोगे अभिक्रमनाशः अभिक्रमणमभिक्रमः प्रारम्भः तस्य नाशः नास्ति यथा कृष्यादेः । योगविषये प्रारम्भस्य न अनैकान्तिकफलत्वमित्यर्थः । किञ्च — नापि चिकित्सावत् प्रत्यवायः विद्यते भवति । किं तु स्वल्पमपि अस्य धर्मस्य योगधर्मस्य अनुष्ठितं त्रायते रक्षति महतः भयात् संसारभयात् जन्ममरणादिलक्षणात् ॥

येयं साङ्ख्ये बुद्धिरुक्ता योगे च, वक्ष्यमाणलक्षणा सा —