Verse Display - श्रीमद्भगवद्गीता
श्लोक

एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां श‍ृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥३९ ॥

व्याकरण विश्लेषण
व्याकरण विश्लेषण अभी उपलब्ध नहीं है
श्रीशाङ्करभाष्य

एषा ते तुभ्यं अभिहिता उक्ता साङ्ख्ये परमार्थवस्तुविवेकविषये बुद्धिः ज्ञानं साक्षात् शोकमोहादिसंसार-हेतुदोषनिवृत्तिकारणम् । योगे तु तत्प्राप्त्युपाये निःसङ्गतया द्वन्द्वप्रहाणपूर्वकं ईश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने समाधियोगे च इमां अनन्तरमेवोच्यमानां बुद्धिं श‍ृणु । तां च बुद्धिं स्तौति प्ररोचनार्थं — बुद्ध्या यया योगविषयया युक्तः हे पार्थ, कर्मबन्धं कर्मैव धर्माधर्माख्यो बन्धः कर्मबन्धः तं प्रहास्यसि ईश्वरप्रसादनिमित्तज्ञानप्राप्त्यैव इत्यभिप्रायः ॥

किञ्च अन्यत् —