सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥३८ ॥
सुखदुःखे समे तुल्ये कृत्वा, रागद्वेषावप्यकृत्वेत्येतत् । तथा लाभालाभौ जयाजयौ च समौ कृत्वा ततो युद्धाय युज्यस्व घटस्व । न एवं युद्धं कुर्वन् पापं अवाप्स्यसि । इत्येष उपदेशः प्रासङ्गिकः ॥
शोकमोहापनयनाय लौकिको न्यायः “स्वधर्ममपि चावेक्ष्य” (भ. गी. २-३१) इत्याद्यैः श्लोकैरुक्तः, न तु तात्पर्येण । परमार्थदर्शनमिह प्रकृतम् । तच्चोक्तमुपसंह्रियते —“एषा तेऽभिहिता” (भ. गी. २-३९) इति शास्त्रविषयविभागप्रदर्शनाय । इह हि प्रदर्शिते पुनः शास्त्रविषयविभागे उपरिष्टात् “ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्” (भ. गी. ३-३) इति निष्ठाद्वयविषयं शास्त्रं सुखं प्रवर्तिष्यते, श्रोतारश्च विषयविभागेन सुखं ग्रहीष्यन्ति इत्यत आह —