अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥३६ ॥
अवाच्यवादान् अवक्तव्यवादांश्च बहून् अनेकप्रकारान् वदिष्यन्ति तव अहिताः शत्रवः निन्दन्तः कुत्सयन्तः तव त्वदीयं सामर्थ्यं निवातकवचादियुद्धनिमित्तम् । ततः तस्मात् निन्दाप्राप्तेर्दुःखात् दुःखतरं नु किम्, ततः कष्टतरं दुःखं नास्तीत्यर्थः ॥
युद्धे पुनः क्रियमाणे कर्णादिभिः —