Verse Display - श्रीमद्भगवद्गीता
श्लोक

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥३४ ॥

व्याकरण विश्लेषण
व्याकरण विश्लेषण अभी उपलब्ध नहीं है
श्रीशाङ्करभाष्य

अकीर्तिं चापि युद्धे भूतानि कथयिष्यन्ति ते तव अव्ययां दीर्घकालाम् । धर्मात्मा शूर इत्येवमादिभिः गुणैः सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते, सम्भावितस्य च अकीर्तेः वरं मरणमित्यर्थः ॥

किञ्च —