अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥३३ ॥
अथ चेत् त्वं इमं धर्म्यं धर्मादनपेतं विहितं सङ्ग्रामं युद्धं न करिष्यसि चेत्, ततः तदकरणात् स्वधर्मं कीर्तिं च महादेवादिसमागमनिमित्तां हित्वा केवलं पापं अवाप्स्यसि ॥
न केवलं स्वधर्मकीर्तिपरित्यागः —