यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥३२ ॥
यदृच्छया च अप्रार्थिततया उपपन्नं आगतं स्वर्गद्वारं अपावृतम् उद्धाटितं ये एतत् ईदृशं युद्धं लभन्ते क्षत्रियाः हे पार्थ, किं न सुखिनः ते ? एवं कर्तव्यताप्राप्तमपि —