Verse Display - श्रीमद्भगवद्गीता
श्लोक

आश्चर्यवत्पश्यति कश्चिदेन- माश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः श‍ृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२९ ॥

व्याकरण विश्लेषण
व्याकरण विश्लेषण अभी उपलब्ध नहीं है
श्रीशाङ्करभाष्य

आश्चर्यवत् आश्चर्यं अदृष्टपूर्वं अद्भुतं अकस्माद्दृश्यमानं तेन तुल्यं आश्चर्यवत् आश्चर्यमिति एनं आत्मानं पश्यति कश्चित् । आश्चर्यवत् एनं वदति तथैव च अन्यः । आश्चर्यवच्च एनमन्यः श‍ृणोति । श्रुत्वा दृष्ट्वा उक्त्वापि एनमात्मानं वेद न चैव कश्चित् । अथवा योऽयमात्मानं पश्यति स आश्चर्यतुल्यः, यो वदति यश्च श‍ृणोति सः अनेकसहस्रेषु कश्चिदेव भवति । अतो दुर्बोध आत्मा इत्यभिप्रायः ॥

अथेदानीं प्रकरणार्थमुपसंहरन्ब्रूते —