अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२८ ॥
अव्यक्तादीनि अव्यक्तं अदर्शनं अनुपलब्धिः आदिः येषां भूतानां पुत्रमित्रादिकार्यकरणसङ्घातात्मकानां तानि अव्यक्तादीनि भूतानि प्रागुत्पत्तेः, उत्पन्नानि च प्राङ्मरणात् व्यक्तमध्यानि । अव्यक्तनिधनान्येव पुनः अव्यक्तं अदर्शनं निधनं मरणं येषां तानि अव्यक्तनिधनानि । मरणादूर्ध्वमप्यव्यक्ततामेव प्रतिपद्यन्ते इत्यर्थः । तथा चोक्तम् —''अदर्शनादापतितः पुनश्चादर्शनं गतः । नासौ तव न तस्य त्वं वृथा का परिदेवना'' (मो. ध. १७४-१७) इति । तत्र का परिदेवना को वा प्रलापः अदृष्टदृष्टप्रनष्टभ्रान्तिभूतेषु भूतेष्वित्यर्थः ॥
दुर्विज्ञेयोऽयं प्रकृत आत्मा ; किं त्वामेवैकमुपालभे साधारणे भ्रान्तिनिमित्ते । कथं दुर्विज्ञेयोऽयमात्मा इत्यत आह —