जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२७ ॥
जातस्य हि लब्धजन्मनः ध्रुवः अव्यभिचारी मृत्युः मरणं ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्योऽयं जन्ममरणलक्षणोऽर्थः । तस्मिन्नपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥
कार्यकरणसङ्घातात्मकान्यपि भूतान्युद्दिश्य शोको न युक्तः कर्तुम्, यतः —