अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२६ ॥
अथ च इति अभ्युपगमार्थः । एनं प्रकृतमात्मानं नित्यजातं लोकप्रसिद्ध्या प्रत्यनेकशरीरोत्पत्ति जातो जात इति मन्यसे प्रतितत्तद्विनाशं नित्यं वा मन्यसे मृतं मृतो मृत इति ; तथापि तथाभावेऽपि आत्मनि त्वं महाबाहो, न एवं शोचितुमर्हसि, जन्मवतो जन्म नाशवतो नाशश्चेत्येताववश्यम्भाविनाविति ॥
तथा च सति —