अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२५ ॥
सर्वकरणाविषयत्वात् न व्यज्यत इति अव्यक्तः अयं आत्मा । अत एव अचिन्त्यः अयम् । यद्धि इन्द्रियगोचरः तत् चिन्ताविषयत्वमापद्यते । अयं त्वात्मा अनिन्द्रियगोचरत्वात् अचिन्त्यः । अत एव अविकार्यः, यथा क्षीरं दध्यातञ्चनादिना विकारि न तथा अयमात्मा । निरवयवत्वाच्च अविक्रियः । न हि निरवयवं किञ्चित् विक्रियात्मकं दृष्टम् । अविक्रियत्वात् अविकार्यः अयं आत्मा उच्यते ।तस्मात् एवं यथोक्तप्रकारेण एनं आत्मानं विदित्वा त्वं न अनुशोचितुमर्हसि हन्ताहमेषाम्, मयैते हन्यन्त इति ॥
आत्मनः अनित्यत्वमभ्युपगम्य इदमुच्यते —