Verse Display - श्रीमद्भगवद्गीता
श्लोक

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥२४ ॥

व्याकरण विश्लेषण
व्याकरण विश्लेषण अभी उपलब्ध नहीं है
श्रीशाङ्करभाष्य

यस्मात् अन्योन्यनाशहेतुभूतानि एनमात्मानं नाशयितुं नोत्सहन्ते अस्यादीनि तस्मात् नित्यः । नित्यत्वात् सर्वगतः । सर्वगतत्वात् स्थाणुः इव, स्थिर इत्येतत् । स्थिरत्वात् अचलः अयं आत्मा । अतः सनातनः चिरन्तनः, न कारणात्कुतश्चित् निष्पन्नः, अभिनव इत्यर्थः ॥

नैतेषां श्लोकानां पौनरुक्त्यं चोदनीयम्, यतः एकेनैव श्लोकेन आत्मनः नित्यत्वमविक्रियत्वं चोक्तं “न जायते म्रियते वा” (भ. गी. २-२०) इत्यादिना । तत्र यदेव आत्मविषयं किञ्चिदुच्यते, तत् एतस्मात् श्लोकार्थात् न अतिरिच्यते ; किञ्चिच्छब्दतः पुनरुक्तम्, किञ्चिदर्थतः इति । दुर्बोधत्वात् आत्मवस्तुनः पुनः पुनः प्रसङ्गमापाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणामसंसारित्वबुद्धिगोचरतामापन्नं सत् अव्यक्तं तत्त्वं संसारनिवृत्तये स्यात् इति ॥

किं च —