नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२३ ॥
एवं प्रकृतं देहिनं न छिन्दन्ति शस्त्राणि, निरवयवत्वात् न अवयवविभागं कुर्वन्ति । शस्त्राणि अस्यादीनि । तथा न एनं दहति पावकः, अग्निरपि न भस्मीकरोति । तथा न च एनं क्लेदयन्ति आपः । अपां हि सावयवस्य वस्तुनः आर्द्रीभावकरणेन अवयवविश्लेषापादने सामर्थ्यम् । तत् न निरवयवे आत्मनि सम्भवति । तथा स्नेहवत् द्रव्यं स्नेहशोषणेन नाशयति वायुः । एनं तु आत्मानं न शोषयति मारुतोऽपि ॥
यतः एवं तस्मात् —