Verse Display - श्रीमद्भगवद्गीता
श्लोक

वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२१ ॥

व्याकरण विश्लेषण
व्याकरण विश्लेषण अभी उपलब्ध नहीं है
श्रीशाङ्करभाष्य

वेद विजानाति अविनाशिनं अन्त्यभावविकाररहितं नित्यं विपरिणामरहितं यो वेद इति सम्बन्धः । एनं पूर्वेण मन्त्रेणोक्तलक्षणं अजं जन्मरहितम् अव्ययं अपक्षयरहितं कथं केन प्रकारेण सः विद्वान् पुरुषः अधिकृतः हन्ति हननक्रियां करोति, कथं वा घातयति हन्तारं प्रयोजयति । न कथञ्चित् कञ्चित् हन्ति, न कथञ्चित् कञ्चित् घातयति इति उभयत्र आक्षेप एवार्थः, प्रश्नार्थासम्भवात् । हेत्वर्थस्य च अविक्रियत्वस्य तुल्यत्वात् विदुषः सर्वकर्मप्रतिषेध एव प्रकारणार्थः अभिप्रेतो भगवता । हन्तेस्तु आक्षेपः उदाहरणार्थत्वेन कथितः ॥

विदुषः कं कर्मासम्भवहेतुविशेषं पश्यन् कर्माण्याक्षिपति भगवान् “कथं स पुरुषः” इति । ननु उक्त एवात्मनः अविक्रियत्वं सर्वकर्मासम्भवकारणविशेषः । सत्यमुक्तः । न तु सः कारणविशेषः, अन्यत्वात् विदुषः अविक्रियादात्मनः । न हि अविक्रियं स्थाणुं विदितवतः कर्म न सम्भवति इति चेत्, न ; विदुष— आत्मत्वात् । न देहादिसङ्घातस्य विद्वत्ता । अतः पारिशेष्यात् असंहतः आत्मा विद्वान् अविक्रियः इति तस्य विदुषः कर्मासम्भवात् आक्षेपो युक्तः “कथं स पुरुषः” इति । यथा बुद्ध्याद्याहृतस्य शब्दाद्यर्थस्य अविक्रिय एव सन् बुद्धिवृत्त्यविवेकविज्ञानेन अविद्यया उपलब्धा आत्मा कल्प्यते, एवमेव आत्मानात्मविवेकज्ञानेन बुद्धिवृत्त्या विद्यया असत्यरूपयैव परमार्थतः अविक्रिय एव आत्मा विद्वानुच्यते । विदुष— कर्मासम्भववचनात् यानि कर्माणि शास्त्रेण विधीयन्ते तानि अविदुषो विहितानि इति भगवतो निश्चयोऽवगम्यते ॥

ननु विद्यापि अविदुष एव विधीयते, विदितविद्यस्य पिष्टपेषणवत् विद्याविदानानर्थक्यात् तत्र अविदुषः कर्माणि विधीयन्ते न विदुषः इति विशेषो नोपपद्यते इति चेत्, न ; अनुष्ठेयस्य भावाभावविशेषोपपत्तेः । अग्निहोत्रादिविध्यर्थज्ञानोत्तरकालं अग्निहोत्रादिकर्म अनेकसाधनोपसंहारपूर्वकमनुष्ठेयम् “कर्ता अहम्, मम कर्तव्यम्” इत्येवम्प्रकारविज्ञानवतः अविदुषः यथा अनुष्ठेयं भवति, न तु तथा “न जायते” इत्याद्यात्मस्वरूपविध्यर्थज्ञानोत्तरकालभावि किञ्चिदनुष्ठेयं भवति ; किं तु “नाहं कर्ता, नाहं भोक्ता” इत्याद्यात्मैकत्वाकर्तृत्वादिविषयज्ञानात् नान्यदुत्पद्यते इति एष विशेष उपपद्यते । यः पुनः “कर्ता अहम्” इति वेत्ति आत्मानम्, तस्य “मम इदं कर्तव्यम्” इति अवश्यम्भाविनी बुद्धिः स्यात् ; तदपेक्षया सः अधिक्रियते इति तं प्रति कर्माणि सम्भवन्ति । स च अविद्वान्, “उभौ तौ न विजानीतः” (भ. गी. २-१९) इति वचनात्, विशेषितस्य च विदुषः कर्माक्षेपवचनाच्च “कथं स पुरुषः” इति । तस्मात् विशेषितस्य अविक्रियात्मदर्शिनः विदुषः मुमुक्षोश्च सर्वकर्मसन्न्यासे एव अधिकारः । अत एव भगवान् नारायणः साङ्ख्यान् विदुषः अविदुषश्च कर्मिणः प्रविभज्य द्वे निष्ठे ग्राहयति — “ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्” (भ. गी. ३-३) इति । तथा च पुत्राय आह भगवान् व्यासः — ''द्वाविमावथ पन्थानौ'' (शां. २४१-६) इत्यादि । तथा च क्रियापथश्चैव पुरस्तात् पश्चात्सन्न्यासश्चेति । एतमेव विभागं पुनः पुनर्दर्शयिष्यति भगवान् — अतत्त्ववित् “अहङ्कारविमूढात्मा कर्ताहमिति मन्यते” (भ. गी. ३-२७), तत्त्ववित्तु नाहं करोमि इति । तथा च “सर्वकर्माणि मनसा सन्न्यस्यास्ते” (भ. गी. ५-१३) इत्यादि ॥

तत्र केचित्पण्डितम्मन्या वदन्ति — “जन्मादिषड्भावविक्रियारहितः अविक्रियः अकर्ता एकः अहमात्मा” इति न कस्यचित् ज्ञानं उत्पद्यते, यस्मिन् सति सर्वकर्मसन्न्यासः उपदिश्यते इति । तन्न ; “न जायते” (भ. गी. २-२०)इत्यादिशास्त्रोपदेशानर्थक्यप्रसङ्गात् । यथा च शास्त्रोपदेशसामर्थ्यात् धर्माधर्मास्तित्व-विज्ञानं कर्तुश्च देहान्तरसम्बन्धविज्ञानमुत्पद्यते, तथा शास्त्रात् तस्यैव आत्मनः अविक्रियत्वाकर्तृत्वैकत्वादिविज्ञानं कस्मात् नोत्पद्यते इति प्रष्टव्याः ते । करणागोचरत्वात् इति चेत्, न ; “मनसैवानुद्रष्टव्यम्” (बृ. उ. ४-४-१९) इति श्रुतेः । शास्त्राचार्योपदेशशमदमादिसंस्कृतं मनः आत्मदर्शने करणम् । तथा च तदधिगमाय अनुमाने आगमे च सति ज्ञानं नोत्पद्यत इति साहसमात्रमेतत् । ज्ञानं च उत्पद्यमानं तद्विपरीतमज्ञानं अवश्यं बाधते इत्यभ्युपगन्तव्यम् । तच्च अज्ञानं दर्शितं “हन्ता अहम्, हतः अस्मि” इति उभौ तौ न विजानीतः'' इति । अत्र च आत्मनः हननक्रियायाः कर्तृत्वं कर्मत्वं हेतुकर्तृत्वं च अज्ञानकृतं दर्शितम् । तच्च सर्वक्रियास्वपि समानं कर्तृत्वादेः अविद्याकृतत्वम्, अविक्रियत्वात् आत्मनः । विक्रियावान् हि कर्ता आत्मनः कर्मभूतमन्यं प्रयोजयति “कुरु” इति । तदेतत् अविशेषेण विदुषः सर्वक्रियासु कर्तृत्वं हेतुकर्तृत्वं च प्रतिषेधति भगवान्वासुदेवः विदुषः कर्माधिकाराभावप्रदर्शनार्थम् “वेदाविनाशिनं . . . कथं स पुरुषः” इत्यादिना । क्व पुनः विदुषः अधिकार इति एतदुक्तं पूर्वमेव “ज्ञानयोगेन साङ्ख्यानाम्” (भ. गी. ३-३) इति । तथा च सर्वकर्मसन्न्यासं वक्ष्यति “सर्वकर्माणि मनसा” (भ. गी. ५-१३) इत्यादिना ॥

ननु मनसा इति वचनात् न वाचिकानां कायिकानां च सन्न्यासः इति चेत्, न ; सर्वकर्माणि इति विशेषितत्वात् । मानसानामेव सर्वकर्मणामिति चेत्, न ; मनोव्यापारपूर्वकत्वाद्वाक्कायव्यापाराणां मनोव्यापाराभावे तदनुपपत्तेः । शास्त्रीयाणां वाक्कायकर्मणां कारणानि मानसानि कर्माणि वर्जयित्वा अन्यानि सर्वकर्माणि मनसा सन्न्यस्येदिति चेत्, न ;“नैव कुर्वन्न कारयन्” (भ. गी. ५-१३) इति विशेषणात् । सर्वकर्मसन्न्यासः अयं भगवता उक्तः मरिष्यतः न जीवतः इति चेत्, न ; “नवद्वारे पुरे देही आस्ते” (भ. गी. ५-१३) इति विशेषणानुपपत्तेः । न हि सर्वकर्मसन्न्यासेन मृतस्य तद्देहे आसनं सम्भवति । अकुर्वतः अकारयतश्च देहे सन्न्यस्य इति सम्बन्धः न देहे आस्ते इति चेत्, न ; सर्वत्र आत्मनः अविक्रियत्वावधारणात्, आसनक्रियायाश्च अधिकरणापेक्षत्वात्, तदनपेक्षत्वाच्च सन्न्यासस्य । सम्पूर्वस्तु न्यासशब्दः अत्र त्यागार्थः, न निक्षेपार्थः । तस्मात् गीताशास्त्रे आत्मज्ञानवतः सन्न्यासे एव अधिकारः, न कर्मणि इति तत्र तत्र उपरिष्टात् आत्मज्ञानप्रकरणे दर्शयिष्यामः ॥

प्रकृतं तु वक्ष्यामः । तत्र आत्मनः अविनाशित्वं प्रतिज्ञातम् । तत्किमिवेति, उच्यते —