Verse Display - श्रीमद्भगवद्गीता
श्लोक

न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२० ॥

व्याकरण विश्लेषण
व्याकरण विश्लेषण अभी उपलब्ध नहीं है
श्रीशाङ्करभाष्य

न जायते न उत्पद्यते, जनिलक्षणा वस्तुविक्रिया न आत्मनो विद्यते इत्यर्थः । तथा न म्रियते वा । वाशब्दः चार्थे । न म्रियते च इति अन्त्या विनाशलक्षणा विक्रिया प्रतिषिध्यते । कदाचिच्छब्दः सर्वविक्रियाप्रतिषेधैः सम्बध्यते — न कदाचित् जायते, न कदाचित् म्रियते, इत्येवम् । यस्मात् अयं आत्मा भूत्वा भवनक्रियामनुभूय पश्चात् अभविता अभावं गन्ता न भूयः पुनः, तस्मात् न म्रियते । योहि भूत्वा न भविता स म्रियत इत्युच्यते लोके । वाशब्दात् नशब्दाच्च अयमात्मा अभूत्वा वा भविता देहवत् न भूयः । तस्मात् न जायते । यो हि अभूत्वा भविता स जायत इत्युच्यते । नैवमात्मा । अतो न जायते । यस्मादेवं तस्मात् अजः, यस्मात् न म्रियते तस्मात् नित्यश्च । यद्यपि आद्यन्तयोर्विक्रिययोः प्रतिषेधे सर्वा विक्रियाः प्रतिषिद्धा भवन्ति, तथापि मध्यभाविनीनां विक्रियाणां स्वशब्दैरेव प्रतिषेधः कर्तव्यः अनुक्तानामपि यौवनादिसमस्तविक्रियाणां प्रतिषेधो यथा स्यात् इत्याह — शाश्वत इत्यादिना । शाश्वत इति अपक्षयलक्षणा विक्रिया प्रतिषिध्यते । शश्वद्भवः शाश्वतः । न अपक्षीयते स्वरूपेण, निरवयवत्वात् । नापि गुणक्षयेण अपक्षयः, निर्गुणत्वात् । अपक्षयविपरीतापि वृद्धिलक्षणा विक्रिया प्रतिषिध्यते — पुराण इति । यो हि अवयवागमेन उपचीयते स वर्धते अभिनव इति च उच्यते । अयं तु आत्मा निरवयवत्वात् पुरापि नव एवेति पुराणः ; न वर्धते इत्यर्थः । तथा न हन्यते । हन्ति ; अत्र विपरिणामार्थे द्रष्टव्यः अपुनरुक्ततायै । न विपरिणम्यते इत्यर्थः हन्यमाने विपरिणम्यमानेऽपि शरीरे । अस्मिन् मन्त्रे षड् भावविकारा लौकिकवस्तुविक्रिया आत्मनि प्रतिषिध्यन्ते । सर्वप्रकारविक्रियारहित आत्मा इति वाक्यार्थः । यस्मादेवं तस्मात् “उभौ तौ न विजानीतः” इति पूर्वेण मन्त्रेण अस्य सम्बन्धः ॥

“य एनं वेत्ति हन्तारम्” (भ. गी. २-१९) इत्यनेन मन्त्रेण हननक्रियायाः कर्ता कर्म च न भवति इति प्रतिज्ञाय, “न जायते” इत्यनेन अविक्रियत्वं हेतुमुक्त्वा प्रतिज्ञातार्थमुपसंहरति —