य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥१९ ॥
य एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हननक्रियायाः कर्तारं यश्च एनं अन्यो मन्यते हतं देहहननेन “हतः अहम्” इति हननक्रियायाः कर्मभूतम्, तौ उभौ न विजानीतः न ज्ञातवन्तौ अविवेकेन आत्मानम् । “हन्ता अहम्” “हतः अस्ति अहम्” इति देहहननेन आत्मानमहं प्रत्ययविषयं यौ विजानीतः तौ आत्मस्वरूपानभिज्ञौ इत्यर्थः यस्मात् न अयं आत्मा हन्ति न हननक्रियायाः कर्ता भवति, न च हन्यते न च कर्म भवतीत्यर्थः, अविक्रियत्वात् ॥
कथमविक्रय आत्मेति द्वितीयो मन्त्रः —