Verse Display - श्रीमद्भगवद्गीता
श्लोक

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥१८ ॥

व्याकरण विश्लेषण
व्याकरण विश्लेषण अभी उपलब्ध नहीं है
श्रीशाङ्करभाष्य

अन्तः विनाशः विद्यते येषां ते अन्तवन्तः । यथा मृगतृष्णिकादौ सद्बुद्धिः अनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते, स तस्य अन्तः ; तथा इमे देहाः स्वप्नमायादेहादिवच्च अन्तवन्तः नित्यस्य शरीरिणः शरीरवतः अनाशिनः अप्रमेयस्य आत्मनः अन्तवन्त इति उक्ताः विवेकिभिरित्यर्थः । “नित्यस्य” “अनाशिनः” इति न पुनरुक्तम् ; नित्यत्वस्य द्विविधत्वात् लोके, नाशस्य च । यथा देहो भस्मीभूतः अदर्शनं गतो नष्ट उच्यते । विद्यमानोऽपि यथा अन्यथा परिणतो व्याध्यादियुक्तो जातो नष्ट उच्यते । तत्र “नित्यस्य” “अनाशिनः” इति द्विविधेनापि नाशेन असम्बन्धः अस्येत्यर्थः अन्यथा पृथिव्यादिवदपि नित्यत्वं स्यात् आत्मनः ; तत् मा भूदिति “नित्यस्य” “अनाशिनः” इत्याह । अप्रमेयस्य न प्रमेयस्य प्रत्यक्षादिप्रमाणैः अपरिच्छेद्यस्येत्यर्थः ॥

ननु आगमेन आत्मा परिच्छिद्यते, प्रत्यक्षादिना च पूर्वम् । न ; आत्मनः स्वतःसिद्धत्वात् । सिद्धे हि आत्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति । न हि पूर्वम् “इत्थमहम्” इति आत्मानमप्रमाय पश्चात् प्रमेयपरिच्छेदाय प्रवर्तते । न हि आत्मा नाम कस्यचित् अप्रसिद्धो भवति । शास्त्रं तु अन्त्यं प्रमाणं अतद्धर्माध्यारोपणमात्रनिवर्तकत्वेन प्रमाणत्वं आत्मनः प्रतिपद्यते, न तु अज्ञातार्थ- ज्ञापकत्वेन । तथा च श्रुतिः — “यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः” (बृ. उ. ३-५-१) इति ॥

यस्मादेवं नित्यः अविक्रियश्च आत्मा तस्मात् युध्यस्व, युद्धात् उपरमं मा कार्षीः इत्यर्थः ॥

न हि अत्र युद्धकर्तव्यता विधीयते, युद्धे प्रवृत्त एव हि असौ शोकमोहप्रतिबद्धः तूष्णीमास्ते । अतः तस्य प्रतिबन्धापनयनमात्रं भगवता क्रियते । तस्मात् “युध्यस्व” इति अनुवादमात्रम्, न विधिः ॥

शोकमोहादिसंसारकारणनिवृत्त्यर्थः गीताशास्त्रम्, न प्रवर्तकं इत्येतस्यार्थस्य साक्षिभूते ऋचौ आनीनाय भगवान् । यत्तु मन्यसे “युद्धे भीष्मादयो मया हन्यन्ते” “अहमेव तेषां हन्ता” इति, एषा बुद्धिः मृषैव ते । कथम् ? —