Verse Display - श्रीमद्भगवद्गीता
श्लोक

नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥१६ ॥

व्याकरण विश्लेषण
व्याकरण विश्लेषण अभी उपलब्ध नहीं है
श्रीशाङ्करभाष्य

न असतः अविद्यमानस्य शीतोष्णादेः सकारणस्य न विद्यते नास्ति भावो भवनं अस्तिता ॥

न हि शीतोष्णादि सकारणं प्रमाणैर्निरूप्यमाणं वस्तुसद्भवति । विकारो हि सः, विकारश्च व्यभिचरति । यथा घटादिसंस्थानं चक्षुषा निरूप्यमाणं मृद्व्यतिरेकेणानुपलब्धेरसत्, तथा सर्वो विकारः कारणव्यतिरेकेणानुपलब्धेरसन् । जन्मप्रध्वंसाभ्यां प्रागूर्ध्वं च अनुपलब्धेः कार्यस्य घटादेः मृदादिकारणस्य च तत्कारणव्यतिरेकेणानुपलब्धेरसत्त्वम् ॥

तदसत्त्वे सर्वाभावप्रसङ्ग इति चेत्, न ; सर्वत्र बुद्धिद्वयोपलब्धेः, सद्बुद्धिरसद्बुद्धिरिति । यद्विषया बुद्धिर्न व्यभिचरति, तत् सत् ; यद्विषया व्यभिचरति, तदसत् ; इति सदसद्विभागे बुद्धितन्त्रे स्थिते, सर्वत्र द्वे बुद्धी सर्वैरुपलभ्येते समानाधिकरणे न नीलोत्पलवत्, सन् घटः, सन् पटः, सन् हस्ती इति । एवं सर्वत्र तयोर्बुद्ध्योः घटादिबुद्धिः व्यभिचरति । तथा च दर्शितम् । न तु सद्बुद्धिः । तस्मात् घटादिबुद्धिविषयः असन्, व्यभिचारात् ; न तु सद्बुद्धिविषयः, अव्यभिचारात् ॥

घटे विनष्टे घटबुद्दौ व्यभिचरन्त्यां सद्बुद्धिरपि व्यभिचरतीति चेत्, न ; पटादावपि सद्बुद्धिदर्शनात् । विशेषणविषयैव सा सद्बुद्धिः ॥

सद्बुद्धिवत् घटबुद्धिरपि घटान्तरे दृश्यत इति चेत्, न ; पटादौ अदर्शनात् ॥

सद्बुद्धिरपि नष्टे घटे न दृश्यत इति चेत्, न ; विशेष्याभावात् सद्बुद्धिः विशेषणविषया सती विशेष्याभावे विशेषणानुपपत्तौ किंविषया स्यात् ? न तु पुनः सद्बुद्धेः विषयाभावात् ॥

एकाधिकरणत्वं घटादिविशेष्याभावे न युक्तमिति चेत्, न ; “इदमुदकम्” इति मरीच्यादौ अन्यतराभावेऽपि सामानाधिकरण्यदर्शनात् ॥

तस्माद्देहादेः द्वन्द्वस्य च सकारणस्य असतो न विद्यते भाव इति । तथा सतश्च आत्मनः अभावः अविद्यमानता न विद्यते, सर्वत्र अव्यभिचारात् इति अवोचाम ॥

एवं आत्मानात्मनोः सदसतोः उभयोरपि दृष्टः उपलब्धः अन्तो निर्णयः सत् सदेव असत् असदेवेति, तु अनयोः यथोक्तयोः तत्त्वदर्शिभिः । तदिति सर्वनाम, सर्वं च ब्रह्म, तस्य नाम तदिति, तद्भावः तत्त्वम्, ब्रह्मणो याथात्म्यम् । तत् द्रष्टुं शीलं येषां ते तत्त्वदर्शिनः, तैः तत्त्वदर्शिभिः । त्वमपि तत्त्वदर्शिनां दृष्टिमाश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि नियतानियतरूपाणि द्वन्द्वानि “विकारोऽयमसन्नेव मरीचिजलवन्मिथ्यावभासते” इति मनसि निश्चित्य तितिक्षस्व इत्यभिप्रायः ॥

किं पुनस्तत्, यत् सदेव सर्वदा इति ; उच्यते —