देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥१३ ॥
देहः अस्य अस्तीति देही, तस्य देहिनो देहवतः आत्मनः अस्मिन् वर्तमाने देहे यथा येन प्रकारेण कौमारं कुमारभावो बाल्यावस्था, यौवनं यूनो भावो मध्यमावस्था, जरा वयोहानिः जीर्णावस्था, इत्येताः तिस्रः अवस्थाः अन्योन्यविलक्षणाः । तासां प्रथमावस्थानाशे न नाशः, द्वितीयावस्थोपाजने न उपजन आत्मनः । किं तर्हि ? अविक्रियस्यैव द्वितीयतृतीयावस्थाप्राप्तिः आत्मनो दृष्टा । तथा तद्वदेव देहात् अन्यो देहो देहान्तरम्, तस्य प्राप्तिः देहान्तरप्राप्तिः अविक्रियस्यैव आत्मनः इत्यर्थः । धीरो धीमान्, तत्र एवं सति न मुह्यति न मोहमापद्यते ॥
यद्यपि आत्मविनाशनिमित्तो मोहो न सम्भवति नित्य आत्मा इति विजानतः, ततापि शीतोष्णसुखदुःखप्राप्तिनिमित्तो मोहो लौकिको दृश्यते, सुखवियोगनिमित्तो मोहः दुःखसंयोगनिमित्तश्च शोकः । इत्येतदर्जुनस्य वचनमाशङ्क्य भगवानाह —