न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥१२ ॥
न तु एव जातु कदाचित् अहं नासम्, किं तु आसमेव । अतीतेषु देहोत्पत्तिविनाशेषु घटादिषु वियदिव नित्य एव अहमासमित्यभिप्रायः । तथा न त्वं न आसीः, किं तु आसीरेव । तथा न इमे जनाधिपाः न आसन्, किं तु आसन्नेव । तथा न च एव न भविष्यामः, किं तु भविष्याम एव, सर्वे वयं अतः अस्मात् देहविनाशात् परं उत्तरकाले अपि । त्रिष्वपि कालेषु नित्या आत्मस्वरूपेण इत्यर्थः । देहभेदानुवृत्त्या बहुवचनम्, नात्मभेदाभिप्रायेण ॥
तत्र कथमिव नित्य आत्मेति दृष्टान्तमाह —