श्रीभगवानुवाच — अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥११ ॥
अशोच्यान् इत्यादि । न शोच्या अशोच्याः भीष्मद्रोणादयः, सद्वृत्तत्वात् परमार्थस्वरूपेण च नित्यत्वात्, तान् अशोच्यान् अन्वशोचः अनुशोचितवानसि “ते म्रियन्ते मन्निमित्तम्, अहं तैर्विनाभूतः किं करिष्यामि राज्यसुखादिना” इति । त्वं प्रज्ञावादान् प्रज्ञावतां बुद्धिमतां वादांश्च वचनानि च भाषसे तदेतत् मौढ्यं पाण्डित्यं च विरुद्धं आत्मनि दर्शयसि उन्मत्त इव इत्यभिप्रायः । यस्मात् गतासून् गतप्राणान् मृतान्, अगतासून् अगतप्राणान् जीवतश्च न अनुशोचन्ति पण्डिताः आत्मज्ञाः । पण्डा आत्मविषया बुद्धिः येषां ते हि पण्डिताः, “पाण्डित्यं निर्विद्य” (बृ. उ. ३-५-१) इति श्रुतेः । परमार्थतस्तु तान् नित्यान् अशोच्यान् अनुशोचसि, अतो मूढोऽसि इत्यभिप्रायः ॥
कुतस्ते अशोच्याः, यतो नित्याः । कथम् ? —