Verse Display - श्रीमद्भगवद्गीता
श्लोक

तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥१० ॥

व्याकरण विश्लेषण
व्याकरण विश्लेषण अभी उपलब्ध नहीं है
श्रीशाङ्करभाष्य
श्री शङ्कराचार्य



भाष्य —

अत्र ‘दृष्ट्वा तु पाण्डवानीकम्’ (भ. गी. १ । २) इत्यारभ्य यावत् ‘न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह’ (भ. गी. २ । ९) इत्येतदन्तः प्राणिनां शोकमोहादिसंसारबीजभूतदोषोद्भवकारणप्रदर्शनार्थत्वेन व्याख्येयो ग्रन्थः । तथाहि — अर्जुनेन राज्यगुरुपुत्रमित्रसुहृत्स्वजनसम्बन्धिबान्धवेषु ‘अहमेतेषाम्’ ‘ममैते’ इत्येवंप्रत्ययनिमित्तस्नेहविच्छेदादिनिमित्तौ आत्मनः शोकमोहौ प्रदर्शितौ ‘कथं भीष्ममहं सङ्‍ख्ये’ (भ. गी. २ । ४) इत्यादिना । शोकमोहाभ्यां ह्यभिभूतविवेकविज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्युद्धादुपरराम ; परधर्मं च भिक्षाजीवनादिकं कर्तुं प्रववृते । तथा च सर्वप्राणिनां शोकमोहादिदोषाविष्टचेतसां स्वभावत एव स्वधर्मपरित्यागः प्रतिषिद्धसेवा च स्यात् । स्वधर्मे प्रवृत्तानामपि तेषां वाङ्मनःकायादीनां प्रवृत्तिः फलाभिसन्धिपूर्विकैव साहङ्कारा च भवति । तत्रैवं सति धर्माधर्मोपचयात् इष्टानिष्टजन्मसुखदुःख़ादिप्राप्तिलक्षणः संसारः अनुपरतो भवति । इत्यतः संसारबीजभूतौ शोकमोहौ तयोश्च सर्वकर्मसंन्यासपूर्वकादात्मज्ञानात् नान्यतो निवृत्तिरिति तदुपदिदिक्षुः सर्वलोकानुग्रहार्थम् अर्जुनं निमित्तीकृत्य आह भगवान्वासुदेवः — ‘अशोच्यान्’ (भ. गी. २ । ११) इत्यादि ॥

व्याख्या —

यहाँ दृष्ट्वा तु पाण्डवानीकम् इस श्लोकसे लेकर न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह इस श्लोकतकके ग्रन्थकी व्याख्या यों कर लेनी चाहिये कि यह प्रकरण प्राणियोंके शोक मोह आदि जो संसारके बीजभूत दोष है उनकी उत्पत्तिका कारण दिखलानेके लिये है। क्योंकि कथं भीष्ममहं संख्ये इत्यादि श्लोकोंद्वारा अर्जुनने इसी तरह राज्य गुरु पुत्र मित्र सुहृद स्वजन सम्बन्धी और बान्धवोंके विषयमें यह मेरे हैं मैं इनका हूँ इस प्रकार अज्ञानजनित स्नेहविच्छेद आदि कारणोंसे होनेवाले अपने शोक और मोह दिखाये हैं। यद्यपि ( वह अर्जुन ) स्वयं ही पहले क्षात्रधर्मरूप युद्धमें प्रवृत्त हुआ था तो भी शोकमोहके द्वारा विवेकविज्ञानके दब जानेपर ( वह ) उस युद्धसे रुक गया और भिक्षाद्वारा जीवननिर्वाह करना आदि दूसरोंके धर्मका आचरण करनेके लिये प्रवृत्त हो गया। इसी तरह शोकमोह आदि दोषोंसे जिनका चित्त घिरा हुआ हो ऐसे सभी प्राणियोंसे स्वधर्मका त्याग और निषिद्ध धर्मका सेवन स्वाभाविक ही होता है। यदि वे स्वधर्मपालनमें लगे हुए हों तो भी उनके मन वाणी और शरीरादिकी प्रवृत्ति फलाकांक्षापूर्वक और अहंकारसहित ही होती है। ऐसा होनेसे पुण्यपाप दोनों बढ़ते रहनेके कारण अच्छेबुरे जन्म और सुखदुःखोंकी प्राप्तिरूप संसार निवृत्त नहीं हो पाता अतः शोक और मोह यह दोनों संसारके बीजरूप हैं। इन दोनोंकी निवृत्ति सर्वकर्मसंन्यासपूर्वक आत्मज्ञानके अतिरिक्त अन्य उपायसे नहीं हो सकती। अतः उसका ( आत्मज्ञानका ) उपदेश करने की इच्छावाले भगवान् वासुदेव सब लोगोंपर अनुग्रह करने के लिये अर्जुनको निमित्त बनाकर कहने लगे अशोच्यान् इत्यादि।

भाष्य —

अत्र केचिदाहुः — सर्वकर्मसंन्यासपूर्वकादात्मज्ञाननिष्ठामात्रादेव केवलात् कैवल्यं न प्राप्यत एव । किं तर्हि ? अग्निहोत्रादिश्रौतस्मार्तकर्मसहितात् ज्ञानात् कैवल्यप्राप्तिरिति सर्वासु गीतासु निश्चितोऽर्थ इति । ज्ञापकं च आहुरस्यार्थस्य — ‘अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि’ (भ. गी. २ । ३३) ‘कर्मण्येवाधिकारस्ते’ (भ. गी. २ । ४७) ‘कुरु कर्मैव तस्मात्त्वम्’ (भ. गी. ४ । १५) इत्यादि । हिंसादियुक्तत्वात् वैदिकं कर्म अधर्माय इतीयमप्याशङ्का न कार्या । कथम् ? क्षात्रं कर्म युद्धलक्षणं गुरुभ्रातृपुत्रादिहिंसालक्षणमत्यन्तं क्रूरमपि स्वधर्म इति कृत्वा न अधर्माय ; तदकरणे च ‘ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि’ (भ. गी. २ । ३३) इति ब्रुवता यावज्जीवादिश्रुतिचोदितानां पश्वादिहिंसालक्षणानां च कर्मणां प्रागेव नाधर्मत्वमिति सुनिश्चितमुक्तं भवति — इति ॥

तदसत् ; ज्ञानकर्मनिष्ठयोर्विभागवचनाद्बुद्धिद्वयाश्रययोः । ‘अशोच्यान्’ (भ. गी. २ । ११) इत्यादिना भगवता यावत् ‘स्वधर्ममपि चावेक्ष्य’ (भ. गी. २ । ३१) इत्येतदन्तेन ग्रन्थेन यत्परमार्थात्मतत्त्वनिरूपणं कृतम् , तत्साङ्ख्यम् । तद्विषया बुद्धिः आत्मनो जन्मादिषड्विक्रियाभावादकर्ता आत्मेति प्रकरणार्थनिरूपणात् या जायते, सा साङ्ख्या बुद्धिः । सा येषां ज्ञानिनामुचिता भवति, ते साङ्ख्याः । एतस्या बुद्धेः जन्मनः प्राक् आत्मनो देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वाद्यपेक्षो धर्माधर्मविवेकपूर्वको मोक्षसाधनानुष्ठानलक्षणो योगः । तद्विषया बुद्धिः योगबुद्धिः । सा येषां कर्मिणामुचिता भवति ते योगिनः । तथा च भगवता विभक्ते द्वे बुद्धी निर्दिष्टे ‘एषा तेऽभिहिता साङ्‍ख्ये बुद्धिर्योगे त्विमां शृणु’ (भ. गी. २ । ३९) इति । तयोश्च साङ्‍ख्यबुद्ध्याश्रयां ज्ञानयोगेन निष्ठां साङ्‍ख्यानां विभक्तां वक्ष्यति ‘पुरा वेदात्मना मया प्रोक्ता’ (भ. गी. ३ । ३) इति । तथा च योगबुद्ध्याश्रयां कर्मयोगेन निष्ठां विभक्तां वक्ष्यति — ‘कर्मयोगेन योगिनाम्’ इति । एवं साङ्‍ख्यबुद्धिं योगबुद्धिं च आश्रित्य द्वे निष्ठे विभक्ते भगवतैव उक्ते ज्ञानकर्मणोः कर्तृत्वाकर्तृत्वैकत्वानेकत्वबुद्ध्याश्रययोः युगपदेकपुरुषाश्रयत्वासम्भवं पश्यता । यथा एतद्विभागवचनम् , तथैव दर्शितं शातपथीये ब्राह्मणे — ‘एतमेव प्रव्राजिनो लोकमिच्छन्तो ब्राह्मणाः प्रव्रजन्ति’ इति सर्वकर्मसंन्यासं विधाय तच्छेषेण ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इति । तत्र च प्राक् दारपरिग्रहात् पुरुषः आत्मा प्राकृतो धर्मजिज्ञासोत्तरकालं लोकत्रयसाधनम् — पुत्रम् , द्विप्रकारं च वित्तं मानुषं दैवं च ; तत्र मानुषं कर्मरूपं पितृलोकप्राप्तिसाधनं विद्यां च दैवं वित्तं देवलोकप्राप्तिसाधनम् — ‘सोऽकामयत’ (बृ. उ. १ । ४ । १७) इति अविद्याकामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि । तेभ्यः ‘व्युत्थाय, प्रव्रजन्ति’ इति व्युत्थानमात्मानमेव लोकमिच्छतोऽकामस्य विहितम् । तदेतद्विभागवचनमनुपपन्नं स्याद्यदि श्रौतकर्मज्ञानयोः समुच्चयोऽभिप्रेतः स्याद्भगवतः ॥

न च अर्जुनस्य प्रश्न उपपन्नो भवति ‘ज्यायसी चेत्कर्मणस्ते’ (भ. गी. ३ । १) इत्यादिः । एकपुरुषानुष्ठेयत्वासम्भवं बुद्धिकर्मणोः भगवता पूर्वमनुक्तं कथमर्जुनः अश्रुतं बुद्धेश्च कर्मणो ज्यायस्त्वं भगवत्यध्यारोपयेन्मृषैव ‘ज्यायसी चेत्कर्मणस्ते मता बुद्धिः’ (भ. गी. ३ । १) इति ॥

किञ्च — यदि बुद्धिकर्मणोः सर्वेषां समुच्चय उक्तः स्यात् अर्जुनस्यापि स उक्त एवेति, ‘यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्’ (भ. गी. ५ । १) इति कथमुभयोरुपदेशे सति अन्यतरविषय एव प्रश्नः स्यात् ? न हि पित्तप्रशमनार्थिनः वैद्येन मधुरं शीतलं च भोक्तव्यम् इत्युपदिष्टे तयोरन्यतरत्पित्तप्रशमनकारणं ब्रूहि इति प्रश्नः सम्भवति ॥

अथ अर्जुनस्य भगवदुक्तवचनार्थविवेकानवधारणनिमित्तः प्रश्नः कल्प्येत, तथापि भगवता प्रश्नानुरूपं प्रतिवचनं देयम् — मया बुद्धिकर्मणोः समुच्चय उक्तः, किमर्थमित्थं त्वं भ्रान्तोऽसि — इति । न तु पुनः प्रतिवचनमननुरूपं पृष्टादन्यदेव ‘द्वे निष्ठे मया पुरा प्रोक्ते’ (भ. गी. ३ । ३) इति वक्तुं युक्तम् ॥

नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चये अभिप्रेते विभागवचनादि सर्वमुपपन्नम् । किञ्च — क्षत्रियस्य युद्धं स्मार्तं कर्म स्वधर्म इति जानतः ‘तत्किं कर्मणि घोरे मां नियोजयसि’ (भ. गी. ३ । १) इति उपालम्भोऽनुपपन्नः ॥

तस्माद्गीताशास्त्रे ईषन्मात्रेणापि श्रौतेन स्मार्तेन वा कर्मणा आत्मज्ञानस्य समुच्चयो न केनचिद्दर्शयितुं शक्यः । यस्य तु अज्ञानात् रागादिदोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशुद्धसत्त्वस्य ज्ञानमुत्पन्नम्परमार्थतत्त्वविषयम् ‘एकमेवेदं सर्वं ब्रह्म अकर्तृ च’ इति, तस्य कर्मणि कर्मप्रयोजने च निवृत्तेऽपि लोकसङ्ग्रहार्थं यत्नपूर्वं यथा प्रवृत्तिः, तथैव प्रवृत्तस्य यत्प्रवृत्तिरूपं दृश्यते न तत्कर्म येन बुद्धेः समुच्चयः स्यात् ; यथा भगवतो वासुदेवस्य क्षत्रधर्मचेष्टितं न ज्ञानेन समुच्चीयते पुरुषार्थसिद्धये, तद्वत् तत्फलाभिसन्ध्यहङ्काराभावस्य तुल्यत्वाद्विदुषः । तत्त्वविन्नाहं करोमीति मन्यते, न च तत्फलमभिसन्धत्ते । यथा च स्वर्गादिकामार्थिनः अग्निहोत्रादिकर्मलक्षणधर्मानुष्ठानाय आहिताग्नेः काम्ये एव अग्निहोत्रादौ प्रवृत्तस्य सामि कृते विनष्टेऽपि कामे तदेव अग्निहोत्राद्यनुतिष्ठतोऽपि न तत्काम्यमग्निहोत्रादि भवति । तथा च दर्शयति भगवान् — ‘कुर्वन्नपि न लिप्यते’ (भ. गी. ५ । ७) ‘न करोति न लिप्यते’ (भ. गी. १३ । ३१) इति तत्र तत्र ॥

यच्च ‘पूर्वैः पूर्वतरं कृतम्’ (भ. गी. ४ । १५) ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ (भ. गी. ३ । २०) इति, तत्तु प्रविभज्य विज्ञेयम् । तत्कथम् ? यदि तावत् पूर्वे जनकादयः तत्त्वविदोऽपि प्रवृत्तकर्माणः स्युः, ते लोकसङ्ग्रहार्थम् ‘गुणा गुणेषु वर्तन्ते’ (भ. गी. ३ । २८) इति ज्ञानेनैव संसिद्धिमास्थिताः, कर्मसंन्यासे प्राप्तेऽपि कर्मणा सहैव संसिद्धिमास्थिताः, न कर्मसंन्यासं कृतवन्त इत्यर्थः । अथ न ते तत्त्वविदः ; ईश्वरसमर्पितेन कर्मणा साधनभूतेन संसिद्धिं सत्त्वशुद्धिम् , ज्ञानोत्पत्तिलक्षणां वा संसिद्धिम् , आस्थिता जनकादय इति व्याख्येयम् । एवमेवार्थं वक्ष्यति भगवान् ‘सत्त्वशुद्धये कर्म कुर्वन्ति’ (भ. गी. ५ । ११) इति । ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’ (भ. गी. १८ । ४६) इत्युक्त्वा सिद्धिं प्राप्तस्य पुनर्ज्ञाननिष्ठां वक्ष्यति — ‘सिद्धिं प्राप्तो यथा ब्रह्म’ (भ. गी. १८ । ५०) इत्यादिना ॥

तस्माद्गीताशास्त्रे केवलादेव तत्त्वज्ञानान्मोक्षप्राप्तिः न कर्मसमुच्चितात् , इति निश्चितोऽर्थः । यथा चायमर्थः, तथा प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः ॥

तत्रैवं धर्मसंमूढचेतसो मिथ्याज्ञानवतो महति शोकसागरे निमग्नस्य अर्जुनस्य अन्यत्रात्मज्ञानादुद्धरणमपश्यन् भगवान्वासुदेवः ततः कृपया अर्जुनमुद्दिधारयिषुः आत्मज्ञानायावतारयन्नाह —

आनन्दगिरि टीका



टीका —

अतीतसन्दर्भस्येत्थमक्षरोत्थमर्थं विवक्षित्वा तस्मिन्नेव वाक्यविभागमवगमयति - दृष्ट्वा त्विति । ‘धर्मक्षेत्रे कुरुक्षेत्रे’ (भ. भ. गी. १।१) इत्यादिराद्यश्लोकस्तावदेकं वाक्यम् । शास्रस्य कथासम्बन्धपरत्वेन पर्यवसानात् । ‘दृष्ट्वा’ (भ. भ. गी. १।२) इत्यारभ्य यावत् ‘तूष्णीं बभूव ह’ (भ. भ. गी. २।९) इति तावच्चैकं वाक्यम् । इत आरभ्य ‘इदं वचः’ (भ. भ. गी. २।१०) इत्येतदन्तो ग्रन्थो भवत्यपरं वाक्यमिति विभागः । ननु - आद्यश्लोकस्य युक्तमेकवाक्यत्वम् , प्रकृतशास्रस्य महाभारतेऽवतारावद्योतित्वात् , अन्तिमस्यापि सम्भवत्येकवाक्यत्वमर्जुनाश्वासार्थतया प्रवृत्तत्वात् , तन्मध्यमस्य तु कथमेकवाक्यत्वमित्याशङ्क्यार्थैकत्वादित्याह - प्राणिनामिति ।

व्याख्या —

यह हिन्दी में टीका की व्याख्या

टीका —

शोकः - मानसस्तापः, मोहः - विवेकाभावः । आदिशब्दस्तदवान्तरभेदार्थः । स एव संसारस्य दुःखात्मनो बीजभूतो दोषः, तस्योद्भवे कारणमहङ्कारो ममकारः तद्धेतुरविद्या च तत्प्रदर्शनार्थत्वेनेति योजना । सङ्गृहीतमर्थं विवृणोति - तथा हीति । राज्यं - राज्ञः कर्म परिपालनादि । पूजार्हा गुरवः - भीष्मद्रोणादयः । पुत्राः - स्वयमुत्पादिताः सौभद्रादयः । सम्बन्धान्तरमन्तरेण स्नेहगोचरा गुरुपुत्रप्रभृतयो मित्रशब्देनोच्यन्ते । उपकारनिरपेक्षतया स्वयमुपकारिणो हृदयानुरागभाजो भगवत्प्रमुखाः सुहृदः । स्वजनाः - ज्ञातयो दुर्योधनादयः । सम्बन्धिनः - श्वशुरस्यालप्रभृतयो द्रुपदधृष्टद्युम्नादयः । परम्परया पितृपितामहादिष्वनुरागभाजो राजानो बान्धवाः । तेषु यथोक्तं प्रत्ययं निमित्तीकृत्य यः स्नेहो यश्च तैः सह विच्छेदो, यच्चैतेषामुपघाते पातकं या च लोकगर्हा सर्वं तन्निमित्तं ययोरात्मनः शोकमोहयोस्तावेतौ संसारबीजभूतौ ‘कथम् ? ‘ (भ. गी. २. ४) इत्यादिना दर्शितावित्यर्थः । कथं पुनरनयोः संसारबीजयोरर्जुने सम्भावनोपपद्यते ? न हि प्रथितमहामहिम्नो विवेकविज्ञानवतः स्वधर्मे प्रवृत्तस्य तस्य शोकमोहावनर्थहेतू सम्भावितावित्याशङ्क्य, विवेकतिरस्कारेण तयोर्विहिताकरणप्रतिषिद्धाचरणकारणत्वादनर्थाधायकयोरस्ति तस्मिन् सम्भावनेत्याह शोकमोहाभ्यामिति । भिक्षया जीवनं प्राणधारणम् । आदिशब्दात् अशेषकर्मसंन्यासलक्षणं पारिव्राज्यमात्माभिध्यानमित्यादि गृह्यते । किञ्च अर्जुने दृश्यमानौ शोकमोहौ संसारबीजं, शोकमोहत्वात् , अस्मदादिनिष्ठशोकमोहवत् , इति उपलब्धौ शोकमोहौ प्रत्येकं पक्षीकृत्यानुमातव्यमित्याह - तथा चेति । शोकमोहादीत्यादिशब्देन मिथ्याभिमानस्नेहगर्हादयो गृह्यन्ते । स्वभावतः चित्तदोषसामर्थ्यादित्यर्थः । अस्मदादीनामपि स्वधर्मे प्रवृत्तानां विहिताकरणाद्यभावात् न शोकादेः संसारबीजतेति दृष्टान्तस्य साध्यविकलतेति चेत् , तत्राह - स्वधर्म इति कायादीनामित्यादिशब्दादवशिष्टानीन्द्रियाण्यादीयन्ते । फलाभिसन्धिः - तद्विषयोऽभिलाषः । कर्तृत्वभोक्तृत्वाभिमानः - अहङ्कारः । प्रागुक्तप्रकारेण वागादिव्यापारे सति किं सिध्यति ? तत्राह - तत्रेति । शुभकर्मानुष्ठानेन धर्मोपचयादिष्टं देवादिजन्म, ततः सुखप्राप्तिः, अशुभकर्मानुष्ठानेन अधर्मोपचयादनिष्टं तिर्यगादिजन्म, ततो दुःखप्राप्तिः, व्यामिश्रकर्मानुष्ठानादुभाभ्यां धर्माधर्माभ्यां मनुष्यजन्म, ततः सुखदुःखे भवतः । एवमात्मकः संसारः सन्ततो वर्तत इत्यर्थः । अर्जुनस्यान्येषां च शोकमोहयोः संसारबीजत्वमुपपादितमुपसंहरति - इत्यत इति । तदेवं प्रथमाध्यायस्य द्वितीयाध्यायैकदेशसहितस्य आत्माज्ञानोत्थनिवर्तनीयशोकमोहाख्यसंसारबीजप्रदर्शनपरत्वं दर्शयित्वा, वक्ष्यमाणसन्दर्भस्य सहेतुकसंसारनिवर्तकसम्यग्ज्ञानोपदेशे तात्पर्यं दर्शयति - तयोश्चेति । तत् - यथोक्तं ज्ञानम् , उपदिदिक्षुः - उपदेष्टुमिच्छन् भगवानाहेति सम्बन्धः । सर्वलोकानुग्रहार्थं यथोक्तं ज्ञानं भगवानुपदिदिक्षतीत्ययुक्तम् , अर्जुनं प्रत्येवोपदेशात् , इत्याशङ्क्याह - अर्जुनमिति । न हि तस्यामवस्थायामर्जुनस्य भगवता यथोक्तं ज्ञानमुपदेष्टुमिष्टम् , किन्तु स्वधर्मानुष्ठानाद् - बुद्धिशुद्ध्युत्तरकालमित्यभिप्रेत्योक्तम् - निमित्तीकृत्येति ।